डिजिटल इंडिया पर संस्कृत निबंध | डिजीभारतम् पर निबंध
डिजिटल इंडिया पर संस्कृत निबंध :- आज इस पोस्ट में डिजिटल इंडिया (Digital India in Sanskrit) पर निबंध लेखन करेंगे। Essay on digital india 10 sentences in Sanskrit पर निबंध लेखन और संस्कृत में 20 वाक्य डिजिटल इंडिया पर निबंध लेखन करेंगे।

अद्य सम्पूर्णविश्वे “डिजिटलइण्डिया” इत्यस्य चर्चा श्रूयते। अस्य पदस्य कः भावः इति मनसि जिज्ञासा उत्पद्यते। कालपरिवर्तनेन सह मानवस्य आवश्यकताऽपि परिवर्तते। प्राचीनकाले ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्, विद्या च श्रुतिपरम्परया गृह्यते स्म। अनन्तरं तालपत्रोपरि भोजपत्रोपरि च लेखनकार्यम् आरब्धम्। परवर्तिनि काले कर्गदस्य लेखन्याः च आविष्कारेण सर्वेषामेव मनोगतानां भावानां कर्गदोपरि लेखनं प्रारब्धम्। टङ्कणयन्त्रस्य आविष्कारेण तु लिखिता सामग्री टङ्किता सती बहुकालाय सुरक्षिता अतिष्ठत्। वैज्ञानिकप्रविधेः प्रगतियात्रा पुनरपि अग्रे गता। अद्य सर्वाणि कार्याणि सङ्गणकनामकेन यन्त्रेण साधितानि भवन्ति। समाचार-पत्राणि, पुस्तकानि च कम्प्यूटरमाध्यमेन पठ्यन्ते लिख्यन्ते च। कर्गदोद्योगे वृक्षाणाम् उपयोगेन वृक्षाः कर्त्यन्ते स्म, परम् सङ्गणकस्य अधिकाधिक प्रयोगेण वृक्षाणां कर्तने न्यूनता भविष्यति इति विश्वासः। अनेन पर्यावरणसुरक्षायाः दिशि महान् उपकारो भविष्यति।
अधुना आपणे वस्तुक्रयार्थम् रूप्यकाणाम् अनिवार्यता नास्ति। “डेबिट कार्ड”, “क्रेडिट कार्ड” इत्यादयः सर्वत्र रूप्यकाणां स्थानं गृहीतवन्तः । वित्तकोशस्य (बैंकस्य) चापि सर्वाणि कार्याणि सङ्गणकयन्त्रेण सम्पाद्यन्ते। बहुविधाः अनुप्रयोगाः (APP) मुद्राहीनाय विनिमयाय (Cashless Transaction) सहायकाः सन्ति।
कुत्रापि यात्रा करणीया भवेत् रेलयानयात्रापत्रस्य, वायुयानयात्रापत्रस्य अनिवार्यता अद्य नास्ति। सर्वाणि पत्राणि अस्माकं चलदूरभाषयन्त्रे ‘ई-मेल’ इति स्थाने सुरक्षितानि भवन्ति यानि सन्दर्थ्य वयं सौकर्येण यात्रायाः आनन्दं गृह्णीमः। चिकित्सालयेऽपि उपचारार्थ रूप्यकाणाम् आवश्यकताद्य नानुभूयते। सर्वत्र कार्डमाध्यमेन, ई-बैंकमाध्यमेन शुल्कं प्रदातुं शक्यते।
तद्दिनं नातिदूरम् यदा वयम् हस्ते एकमात्रं चलदूरभाषयन्त्रमादाय सर्वाणि कार्याणि साधयितुं समर्थाः भविष्यामः। वस्त्रपुटके रूप्यकाणाम् आवश्यकता न भविष्यति। ‘पास्बुक’ चैक्बुक’ इत्यनयोः आवश्यकता न भविष्यति। पठनार्थं पुस्तकानां समाचारपत्राणाम् अनिवार्यता समाप्तप्राया भविष्यति। लेखनार्थम् अभ्यासपुस्तिकायाः कर्गदस्य वा, नूतनज्ञानान्वेषणार्थ शब्दकोशस्याऽपि आवश्यकता न भविष्यति। अपरिचित मार्गस्य ज्ञानार्थं मार्गदर्शकस्य मानचित्रस्य आवश्यकतायाः अनुभूतिः अपि न भविष्यति। एतत् सर्व एकेनेव यन्त्रेण कर्तुं, शक्यते। शाकादिक्रयार्थम्, फलक्रयार्थम्, विश्रामगृहेषु कक्ष सुनिश्चितं कर्तु, चिकित्सालये शुल्कं प्रदातुम्, विद्यालये महाविद्यालये चापि शुल्कं प्रदातुम्, किं बहुना दानमपि दातुं चलदूरभाषयन्त्रमेव अलम्। डिजीभारतम् इति अस्यां दिशि वयं भारतीयाः द्रुतगत्या अग्रेसरामः।
👉 यहां पढ़ें :- डिजिटल इंडिया पर हिंदी में निबंध
डिजीभारतम् / डिजिटल इंडिया पर 10 वाक्य संस्कृत निबंध
- “डिजीभारत” योजनेयां भारतस्य डिजिटलीकरणं प्राथमिकं विषयं विश्वस्यैव उत्कृष्टस्थानं प्राप्नोति।
- सर्वात्मकं विकासं प्राप्नोति तत्र सामाजिक-आर्थिकयोजनानि अभिवृद्धिं करोति।
- शैक्षणिकं विस्तारं लक्षयते, शैक्षणिकस्थितिः सुधारिता भवति।
- स्वास्थ्यसेवा दृष्ट्या समाजस्य उत्तमं लाभं प्रदानं करोति।
- वित्तीय सहायता उपलब्धं करोति, व्यापारिकस्थितिः सुधारिता भवति।
- आर्थिक-सामाजिक समता बढति, न्यायसमाजस्य पुनर्निर्माणं करोति।
- तकनीकी प्रगतिः विश्वास्य अग्रे गतिं दर्शयति।
- समृद्धिः देशस्य अग्रेसरति, योजनानि जनस्य उत्थानं समर्थयन्ति।
- आपणे वस्त्रपुटके, पास्बुक, चैक्बुक आदिकं निरावश्यकं भविष्यति।
- समृद्धिशीलं भारतं क्षिप्रं पर्याप्ततया प्राप्नोति, डिजीभारतं एव तत्र सहायकं भवति।
डिजिटल इंडिया पर 20 लाइन संस्कृत निबंध
- डिजीभारत योजनायां भारतस्य आधुनिकीकरणं प्राथमिकं ध्येयं प्राप्नोति।
- संचारसाधनानां विकासः जनस्य सुगमतां प्रदानं करोति।
- शैक्षणिक संस्थानानां डिजिटलीकरणं विद्यार्थिनां प्रगतिं प्रेरयति।
- सरकारी सेवाओं क्षमतावर्धनं लक्ष्यं प्राप्नोति।
- आर्थिक सहायता व्यापारिकस्थितिं सुधारयति।
- वित्तीय संस्थानानां डिजिटलीकरणं बैंकिंग सुगमतां प्रदानं करोति।
- स्वास्थ्य सेवाओं क्षमतावर्धनं रोगनिरोधकं प्रेरयति।
- सामाजिक समानता समृद्धिं प्राप्नोति।
- तकनीकी उत्पादनं आर्थिक वृद्धिं सृजयति।
- सुरक्षित डिजिटल समाचारपत्राणि जनस्य सूचनास्वातन्त्र्यं प्रदानं करोति।
- अस्थायी कार्यालयस्थानानां संचारसाधनानि कार्यक्षमतां प्रदानं करोति।
- डिजिटल भुगतानः व्यापारस्य सरलीकरणं करोति।
- सर्वांगीण विकासः न्यायसंविदानं समृद्धं करोति।
- तकनीकी अभिवृद्धिः रोजगारसंभावनां वर्धयति।
- डिजिटल शिक्षणं शैक्षणिक प्रगतिं प्रेरयति।
- वित्तीय प्रबन्धनं व्यापारिकस्थितिं सुधारयति।
- आर्थिक समर्थता सामाजिक न्यायसंविदानं समृद्धं करोति।
- स्वास्थ्य सेवाओं क्षमतावर्धनं जनस्य उत्तमं लाभं प्रदानं करोति।
- आधुनिक संचारसाधनानि जनस्य संचारं सुगमं करोति।
- डिजिटल व्यापारस्य विस्तारः रोजगारसंभावनां वर्धयति।