class 7 sanskrit deepakam chapter 12 question answer solutions वीराङ्गना पन्नाधाया
class 7 sanskrit deepakam chapter 12 question answer वीराङ्गना पन्नाधाया solutions सरल भाषा में दिया है। साथ ही Deepakam Class 7 Chapter 12 Virangana Pannadhaya Question Answer in Hindi के सम्पूर्ण अभ्यास प्रश्नों के उत्तर भी सरल भाषा में लिखे गए हैं। इस पाठ के प्रश्न उत्तर के लिए Class 7 Chapter 12 Virangana Pannadhaya Hindi Translation यहां खोले।
NCERT Class 7 Sanskrit Deepakam All Chapaters Solutions

प्रश्न 1. अधः प्रदत्तानां प्रश्नानाम् एकपदेन उत्तरं लिखन्तु –
(क) राजस्थानस्य वीराङ्गनासु का सुविख्याता ?
उत्तर पन्नाधाया
(ख) उदयसिंहः कस्य पुत्रः?
उत्तर संग्रामसिंहस्य
(ग) बनबीरः कं मारयितुम् कुतन्त्रम् अरचयत्?
उत्तर उदयसिंहम्
(घ) कालान्तरे कः मेवाडस्य राजा अभवत् ?
उत्तर उदयसिंहः
(ङ) पन्नाधायायाः निर्णयः कीदृशः आसीत् ?
उत्तर अकल्पनीयः
(च) महाराणाप्रतापः केषां हृदये चिरं स्थानं प्राप्नोत् ?
उत्तर भारतीयानाम्
प्रश्न 2. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखन्तु –
(क) पन्नाधाया कस्य अद्वितीयम् उदाहरणम् अस्ति?
उत्तर पन्नाधायायाः स्वपुत्रस्य बलिदानस्य अद्वितीयम् उदाहरणम् अस्ति ।
(ख) महाराणासङ्ग्रामसिंहस्य पुत्रौ कौ आस्ताम्?
उत्तर महाराणा सङ्ग्रामसिंहस्य द्वौ पुत्रौ विक्रमादित्य उदयसिंहश्च आस्ताम् ।
(ग) दुष्टबुद्धिः बनवीरः किम् अचिन्तयत्?
उत्तर दुष्टबुद्धिः बनवीरः अचिन्तयत् यत् सः एव एकः उत्तराधिकारी भवेत्।
(घ) बनवीरस्य कुतन्त्रं ज्ञात्वा पन्नाधाया किम् अकरोत्?
उत्तर बनवीरस्य कुतंत्रम् ज्ञात्वा पन्नाधाया स्वपुत्रस्य बलिदानम् अकरोत् ।
(ङ) आचन्द्रार्क किं तिष्ठति ?
उत्तर आचन्द्रार्क पन्नाधायायाः त्यागः शौर्यं च तिष्ठति ।
(च) पन्नाधायायाः बलिदानं किं शिक्षयति ?
उत्तर पन्नाधायायाः बलिदानं शौर्यं, राष्ट्रभक्तिं, कर्त्तव्य-निष्ठां, बलिदानं, विवेकं च शिक्षयति ।
प्रश्न 3. उदाहरणानुसारम् उचितैः पदैः रिक्तस्थानानि पूरयन्तु –
उत्तराणि-
| एकवचनम् | द्विवचनम् | बहुवचनम् |
| (क) अमिलत् | अमिलताम् | अमिलन् |
| (ख) अवदः | अवदतम् | अवदत |
| (ग) अखादः | अखादतम् | अखादत |
| (घ) अलिखत् | अलिखताम् | अलिखन् |
| (ङ) अरक्षम् | अरक्षाव | अरक्षाम |
| (च) अपिबः | अपिबतम् | अपिबत |
| (छ) अपृच्छम् | अपृच्छाव | अपृच्छाम |
| (ज) अमारयत् | अमारयताम् | अमारयन् |
| (झ) अभवम् | अभवाव | अभवाम |
प्रश्न 4. वाक्यानि पठित्वा उदाहरणानुसारं वचनपरिवर्तनं कुर्वन्तु –
उत्तराणि- एकवचनम्
(क) सः शालाम् अगच्छत्।
(ख) बालिका पद्यम् अलिखत् ।
(ग) शिक्षकः अवदत् ।
(घ) सा चित्रम् अपश्यत्।
(ङ) त्वम् अक्रीडः।
(च) त्वं जलम् अनयः।
(छ) अहं मन्दिरम् अगच्छम्।
(ज) अहं मधुरम् अखादम् ।
द्विवचनम्
तौ शालाम् अगच्छताम् ।
बालिके पद्ये अलिखताम् ।
शिक्षकौ अवदताम्।
ते चित्रं अपश्यताम् ।
युवाम् अक्रीडतम् ।
युवाम् जलं अनयतम् ।
आवाम् मन्दिरं अगच्छाव ।
आवाम् मधुरं अखादाव।
बहुवचनम्
ते शालाम् अगच्छन् ।
बालिकाः पद्यानि अलिखन् ।
शिक्षकाः अवदन् ।
ताः चित्रं अपश्यन् ।
यूयम् अक्रीडत ।
यूयम जलम् अनयत ।
वयम् मन्दिरं अगच्छाम ।
वयम् मधुरं अखादाम ।
प्रश्न 5. उदाहरणानुसारं रेखाङ्ङ्कतानि पदानि आश्रित्य प्रश्ननिर्माणं कुर्वन्तु –
यथा-महाराणासङ्ग्रामसिंहस्य भ्राता पृथ्वीराजः।
कस्य भ्राता पृथ्वीराजः?
(क) सः अचिन्तयत्।
उत्तर कः अचिन्तयत्?
(ख) शयनस्थाने चन्दनं शायितवती ।
उत्तर कुत्र चन्दनं शायितवती ?
(ग) राष्ट्रहितं श्रेष्ठम् ।
उत्तर किम् श्रेष्ठम् ?
(घ) बनवीरः चन्दनम् अमारयत्।
उत्तर बनवीरः कम् अमारयत्?
(ङ) तस्याः निर्णयः अकल्पनीयः आसीत्। –
उत्तर कस्याः निर्णयः अकल्पनीयः आसीत्?
(च) उदयसिंहः मेवाडस्य राजा अभवत्।
उत्तर कः मेवाडस्य राजा अभवत् ?
(छ) मम प्रतिस्पर्धी न स्यात् ।
उत्तर कस्य प्रतिस्पर्धी न स्यात् ?
प्रश्न 6. उदाहरणानुसारम् अधः प्रदत्तानां पदानां सन्धिं कुर्वन्तु –
यथा-विद्या + अभ्यासः= विद्याभ्यासः
(क) मम + अपि = ममापि
(ख) विद्या + अर्थी = विद्यार्थी
(ग) सह + अनुभूतिः = सहानुभूतिः
(घ) कवि + इन्द्रः = कवीन्द्र:
(ङ) गिरि + ईशः = गिरीशः
(च) वेद + अलङ्कारः= वेदालंकारः
(छ) दैत्य + अरिः = दैत्यारिः
(ज) सु + उक्तिः = सूक्तिः
प्रश्न 7. उदाहरणानुसारम् अधः प्रदत्तानि वाक्यानि वर्तमानकाले (लट्लकारे) परिवर्तयन्तु –
यथा-पन्नाधाया राज्यम् अरक्षत्।
पन्नाधाया राज्यं रक्षति ।
(क) उदयसिंहः वीरः आसीत् ।
उत्तर उदयसिंह वीरः अस्ति।
(ख) अहं तत् सर्वम् अपश्यम् ।
उत्तर अहम् तत् सर्वं पश्यामि ।
(ग) बनवीरः कुतन्त्रम् अकरोत् ।
उत्तर बनवीरः कुतन्त्रम् करोति ।
(घ) त्वं शयनस्थानम् अगच्छः।
उत्तर त्वम् शयनस्थानम् गच्छसि ।
(ङ) ते कथाम् अपठन् ।
उत्तर ते कथाम् पठन्ति ।
(च) धात्री उदयसिंहम् अपृच्छत् ।
उत्तर धात्री उदयसिंहम् पृच्छति ।
(छ) वयम् शूराः अभवाम् ।
उत्तर वयम् शूराः भवामः।

[…] गए हैं। इस पाठ के प्रश्न उत्तर के लिए Class 7 Chapter 12 Virangana Pannadhaya Question Answer यहां […]