NCERT Solutions for Class 12th Bhasawati Sanskriti chapter 9 कार्याकार्यव्यवस्थिति: Hindi Translation & Questions Answers
इस पोस्ट में हमने Sanskrit Class 12th Chapter 9 कार्याकार्यव्यवस्थिति: अनुवाद में हमने सम्पूर्ण अभ्यास प्रश्न को सरल भाषा में लिखा गया है। हमने Bhaswati Sanskrit Class 12th Chapter 9 कार्याकार्यव्यवस्थिति: Questions and Answer बताएं है। इसमें NCERT Class 12th Sanskrit Chapter 9 Notes लिखें है जो इसके नीचे दिए गए हैं।
1. | Class 12th All Subject Solution |
2. | Home |
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥1
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।
दया भूतेष्वलोलुप्त्वं मार्दवं हीरचापलम् ॥ 2
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।
भवन्ति संपदं दैवीमभिजातस्य भारत ॥ 3
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च।
अज्ञानं चाभिजातस्य पार्थ संपदमासुरीम् ॥ 4
दैवी संपद्विमोक्षाय निबन्धायासुरी मता ।
मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव ॥ 5
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।
न शौचं नापि चाऽऽचारो न सत्यं तेषु विद्यते ॥ 6
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ 7
इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् ।
इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ 8
असौ मया हतः शत्रुर्हनिष्ये चापरानपि ।
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी ॥ 9
आढ्यो ऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ।
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिता ॥10
अनेकचित्तविभ्रान्ता मोहजालसमावृताः ।
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥11
आत्मसंभाविताः स्तब्धा धनमानमदान्विताः ।
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥12
अहंकारं बलं दर्प कामं क्रोधं च संश्रिताः ।
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥13
तानहं द्विषतः क्रूरान्संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु।। 14
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥15
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् । 16
- प्रश्नानामुत्तराणि एकपदेन लिखत-
(क) दैवी संपद् कस्मै मता?
उत्तर विमोक्षाय।
(ख) कामभोगेषु प्रसक्ताः कुत्र पतन्ति ?
उत्तर नरके।
(ग) ईश्वरः नराधमान् कासु योनिषु क्षिपति ?
उत्तर आसुरिषु योनिषु।
(घ) त्रिविधं कस्य द्वारम् ?
उत्तर नरस्य।
- प्रश्नानामुत्तराणि पूर्णवाक्येन लिखत-
(क) जगतः क्षयाय के प्रभवन्ति ?
उत्तर जगतः क्षयाय उग्रकर्मणाः प्रभवन्ति।
(ख) अज्ञानविमोहिताः जनाः किं विचारयन्ति ?
उत्तर अज्ञानविमोहिताः जनाः विचारयन्ति यत् अहम् आढ्यः अभिजवान् धनवान च अस्मि मया सदृश कः अस्ति?
(ग) मनुष्यः किं त्यजेत् ?
उत्तर मनुष्यः कामः क्रोधः तथा लोभः त्यजेत् ।
(घ) नरकेऽशुचौ के पतन्ति ?
उत्तर नरकेऽशुचौ अनेकचितविभ्रान्ताः मोहजालसमावृताः प्रसक्ताः पतन्ति।
- रेखांकितपदमाध्य प्रश्ननिर्माणं कुरुत-
(क) भूतेषु दया एव दैवी सम्पद् ।
उत्तर केषु दया एव दैवी सम्पद् ?
(ख) आसुरी सम्पद् निबन्धाय मता ।
उत्तर आसुरी सम्पद् कया मता?
(ग) आसुराः जनाः प्रवृत्तिं निवृत्तिं च न विदुः ।
उत्तर आसुराः का: प्रवृत्तिं निवृत्तिं च न विदुः?
(घ) मूढाः जन्मनि जन्मनि हरिमप्राप्यैव अधम गतिं यान्ति ।
उत्तर के जन्मनि जन्मनि हरिमप्राप्यैव अधम गतिं यान्ति?
4.शुद्धकथनानां समक्षम् ‘आम्’ अशुद्धकथनानां समक्षं ‘न’ इति लिखत
(क) नरकस्य द्वारम् पञ्चविधम् ।
(ख) आसुरीवृत्तियुक्ताः जनाः दम्भेनाविधिपूर्वक यजन्ते । (ग) नष्टात्मानः अल्पबुद्धयः जगतः हिताय प्रभवन्ति ।
(घ) तेजः क्षमा धृतिः इत्यादीनि आसुरीसंपदः अंगभूतानि । (ङ) दम्भ दर्प अभिमानश्च देवीसंपदः अंगभूतानि
(च) अज्ञानविमोहिताः जनाः कोऽन्योऽस्ति सदृशो मया इति चिन्तयन्ति ।
- श्लोकान्वर्य पूरयत-
(क) असौ मया हतः शत्रुर्हनिष्ये चापरानपि ।
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी।
अन्वयः- मया “शत्रुः हतः, अपरान्
अहं भोगी, अहं सिद्धः सुखी।
(ख) दैवी संपद् विमोक्षाय निबन्धायासुरी मता ।
मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव ।।
अन्वयः – विमोक्षाय संपद्, आसुरी (च) निबन्धाय।
पाण्डव! मा। दैवी संपदम् असि।
6.भावार्थ समुचितपदैः पूरयत-
(क) इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् ।
इदमस्तीदमपि मे भविष्यति पुनर्धनम् ।।
श्रीकृष्णः कथयति यत् मूढ़: अज्ञानविमोहितः जनः अतिलोलुपः भवति, किञ्चिद् अल्पमपि प्राप्य आत्माभिमानी भवति यत् अद्य मया इद प्राप्तम् अतः अहम् अन्यम् अपि स्वमनोरथं शीघ्रमेव प्राप्तुं समर्थः यत् किञ्चिद् ममास्ति तत्तु मम अस्त्येव परमन्यत् सर्वं धनमैश्वर्य च मम एव भविष्यति ।
(ख) त्रिविधं नरमस्येदं द्वारं नाश्नमात्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्।
भावार्थ :
कर्तव्याकर्तव्यं वर्णयन् भगवान् श्रीकृष्णः अर्जुनस्य माध्यमेन अस्मान् सर्वान् बोधयति यत् कामः, क्रोधः, लोभश्च एतानि त्रीणि नरकस्य द्वाररूपाणि अतः यः जनः आत्मनः नाशं नेच्छति अपितु स्वकीयं कल्याणमिच्छति सः एतान् द्वारान् नोद्घाटयेत् सर्वप्रयत्नैः च एतेषां त्रयाणां त्यागं कुर्यात् येनैतानि त्रीणि द्वारणि सदैव तस्य कृते पिहितानि सः च उन्नतिपथि अग्रसरो भवेत् ।
- समास विग्रहं समस्तपदं वा लिखित्वा समासस्य नाम अपि लिखत
यथा सत्त्वसंशुद्धिः सत्त्वानां संशुद्धिः षष्ठी तत्पुरुष
(क) अज्ञानम् → न ज्ञानम् इति-नञ् तत्पुरुष समासः ।
(ख) उग्रकर्माणः उग्रं कर्म करोति इति कर्म तत्पुरुष समासः।
(ग) मनोरथम् + मनसः रथम् इति षष्ठी तत्पुरुष समासः ।
(घ) नराधमान् → नरेषु/ नराणाम् अधमाः तान् इति षष्ठी – सप्तमी तत्पुरुष समासः ।
(ङ) त्रिविधम् त्रयाणां विधानां समाहारः इति- समाहार द्वंद्व समासः ।
- वाच्यपरिवर्तनं कृत्वा लिखत-
यथा इदमद्य मया लब्धम् इदमद्य अहं लब्धवान् / लब्धवती ।
(क) अहं तान् आसुरीषु योनिषु क्षिपाि मया ते आसुरीषु योनिषु क्षिप्यते ।
(ख) असौ मया हतः- इमम् अहं हतवान्।
(ग) अल्पबुद्धयः उग्रकर्माणः जगतः क्षयाय प्रभवन्ति।
अल्पबुद्धिभिः उग्रकर्मभिः जगतः क्षयाय प्रभूयते ।
(घ) मया यक्ष्यते दीयते च अहं यक्षामि ददामि च ।
(ङ) अनेकचित्तविभ्रान्ताः मोहजालसमावृताः नरकेऽशुचौ पतन्ति । अनेकचित्तविभ्रान्तैः मोहजालसमावृतैः नरकेऽशुचौ पत्यते।
- प्रकृति-प्रत्यय-विभागं कुरुत-
यथा प्रवृत्तिः प्र उपसर्गः वृत्, क्तिन् प्रत्ययः
(क) अवष्टभ्य = अव उपसर्गः, ष्टभ्, ल्यप्, प्रत्ययः ।
(ख) मता = मन्, क्त प्रत्ययः ।
(ग) अलोलुपत्वम् = अ उपसर्ग: लोलुप, त्व प्रत्ययः ।
(घ) प्रद्विषन्तः = प्र उपसर्गः, द्विष्, शतृ प्रत्ययः ।
(ङ) विमोहिताः = वि उपसर्गः, मोह, इत प्रत्ययः ।